सन्देश: (Message)

यथा स्वतन्त्रतायाः अमृतकाले G-20 देशानामध्यक्षत्वं वहन्नस्माकं देशः आत्मनिर्भरतां प्रति गमनशीलः सन् राष्ट्रियशिक्षानीत्यनुगुणं शिक्षण-कला-कौशल-संशोधनादिक्रियाकलापेषु श्रेष्ठतायै सततं यतमानो वर्तते, तथैव तस्याङ्गतया विश्वविद्यालयोऽस्माकं 12B समवाप्य राष्ट्रियमूल्याङ्कन-प्रत्यायनपरिषदा (NAAC) A+ श्रेण्यां प्रत्यायितः सन् राष्ट्रियशिक्षानीतिं (NEP-2020) अनुपालयन् संस्कृतज्ञान-विज्ञानपरम्परां संरक्षन् बहुविषयकतां नवाचारान् चाङ्गीकृत्य शास्त्रचर्यामवलोक्य सरलमानकसंस्कृतविधिना संस्कृतशास्त्रादीनामध्ययनाध्यापनं विधाय, सर्वत्र संस्कृतमयतां सोपानीकुर्वन् गुणवत्तायुक्तनैकसंशोधनप्रकाशनोपक्रमान् विरच्य शास्त्रगतान् अचिन्तितान् अंशान् सन्मुखीकरोति शोधज्योतिः इति शोधपत्रिकया।

प्रतिशास्त्रं तद्गताः प्रमाणगताः खण्डनमण्डनमण्डिताः सिद्धान्ताः सन्ति। तैः सिद्धान्तैः युक्ता वैज्ञानिकी प्रमाणप्रतिपादिता काचित् विशिष्टा व्यवस्थाऽपि शास्त्रेषु विलसति। तदनुसृत्य शास्त्रगत-दुरूहता तद्गतदुर्ज्ञेयता च दूरीभवेदिति धिया अनन्तरकालीनैः विद्वद्भिः आचार्यैः व्याख्या-भाष्य-टीकादिप्रणयनेन तत्तच्छास्त्राणां तद्गतान् विशिष्टान् अंशान् स्पष्टीकर्तुं नैकविधाः प्रयासाः कृताः। ते सर्वेऽपि यत्नाः प्रयासाश्च मन्ये शास्त्रमर्यादां परिपालयन्तः नूत्नं संशोधनं नवाचारं च प्रदर्शयन्तः शास्त्रालोकमुपकुर्वन्ति। शास्त्रार्थं विशदीकर्तुं संशोधनप्रवृत्तिं प्रेरयितुं प्रकाशयितुं च एतादृशाः यत्नाः विधीयन्ते श्रीसोमनाथसंस्कृतविश्वविद्यालयेन शोधज्योतिः इति शोधपत्रिकामाध्यमेन। शास्त्रेषु सन्निहितानां विविधानामंशानां गूढातिगूढरहस्यमयतत्त्वानां संस्कृत-हिन्दी-आङ्ग्लभाषामाध्यमेन अचिन्तितपूर्वं मुखं प्रदर्शयन्ति पत्रिकासन्निविष्टाः प्रतिभाविशेषं प्रतिभासयन्तः विद्वद्वरेण्यैः आचार्यैः परीक्षिताः समीक्षिताः चिताः उत्तमाः शोधलेखाः अवश्यमेव शास्त्राणां गहनाध्ययनं कर्तुम् इच्छतां संशोधकानां शोधच्छात्राणां च महते लाभाय भविष्यतीति मे प्रत्ययः। शास्त्रसमुत्पिञ्जाः अवश्यमेवऽत्रत्यान् शोधलेखान् तद्गतसंशोधनसामर्थ्यं तद्गततत्त्वं चावलोक्य सन्तुष्टिमवाप्नुयुः इति आशासे। विदुषां प्रसन्नतायै क्रियमाणेयं शोधलेखगता शास्त्रसंशोधनचर्चा संशोधनकर्तॄणां ज्ञानाभिवृद्धये कल्पते।

अस्यां खलु शोधपत्रिकायां विलसति क्वचित् वैदिकवाङ्गमयगतविज्ञानविषयः, क्वचित् रामायणादीतिहासग्रन्थगततत्त्वसंशोधनम्, क्वचित् पुराणशास्त्रीयतत्त्वानि शोभन्ते, क्वचित् साहित्यशास्त्रीयाः सिद्धान्ताः मन आह्लादयन्ति, क्वचित् काव्यगता भावाभिव्यक्तिर्भावकान् प्रीणयति, क्वचिद् आधुनिककाव्यशास्त्रगता विषयविशेषा विशेषयन्ति शोधपत्रिकामिमाम्, क्वचिद् आयुर्वेदीय-यौगिक-धर्मशास्त्रीयसिद्धान्तानां त्रिवेणी प्रवहति अस्याम्, क्वचिद् आङ्ग्लभाषयोपनिबद्धा अपि लेखाः संस्कृतमेव परिपोषयन्तीति सर्वविधवैविध्यसुमवारसमेयं शोधपत्रिका स्वकीयं ज्ञानसौरभं प्रसार्यतां सर्वासु दिक्षु इति कामये।

महतो मोदस्य विषयो वर्तते यत् विश्वविद्यालयस्य शोधज्योतिः इतीयं शोधपत्रिका UGC CARE संरक्षितअनुसूच्यां समाविष्टा । शोधपत्रिकागतशोधलेखानां माध्यमेन सर्वेषां संस्कृत-संस्कृतिसंरक्षकाणां ज्ञानपिपासूनां पिपासातृप्तिर्भूयादिति भगवद्भुवनभवभयहरस्य हरस्य अनाथनाथस्य भगवतः सोमनाथस्य पादपद्मयोः प्रार्थये । इति शम्॥

भवदीयः